________________
[५२] हैमशब्दानुशासनस्य
टौस्यनः ।२।१।३७ । त्यवां टायामोसि च परेऽनक इदमोऽनः स्यात् । अनेन, अनया, अनयोः, अनयोः । त्यदामित्येव ? प्रियेदमा । अनक इत्येव ? इमकेन ॥ ३७॥
अयमियम पुस्त्रियोः सौ । २१३८1. ___त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यमयमियमौ स्याताम् । अयं ना, इयं स्त्री। त्यदामित्येव ? अतीदं ना स्त्री वा ॥ ३८ ॥
दो मः स्यादौ । २ । १।३९। त्यदां स्यादौ परे इदमो दो म: स्यात् । इमो, परमेमौ इमकाभ्याम् । त्यदामित्येव ? प्रियेदमौ ॥ ४० ॥
किमः कस्तसादौ च । २ । १.। ४० । त्यदां स्यादौ तसादौ च प्रत्यये परे किमः कः स्यात् । कः, साकोऽपि कः। कदा, कर्हि । तसादौ चेति किम् ? किंपश्य, किन्तराम् । त्यदामित्येव ? प्रियकिमौ ॥४०॥
आदेरः । २।१ । ४१ । द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अः स्यात् । स्या, त्यौ, द्वौ, ततः । त्यदामित्येव ? अतितदौ ॥४१॥
तः सौ सः । २ । १ । ४२ । आद्वेस्त्यदां सौ परे तः सः स्यात् । स्यः, स्या, सः, सा, एषा । त्यदामित्येव ? प्रियत्यत् ॥ ४२ ॥ ___अदसो दः सेस्तु डौ।२।१ । ४३।। त्यदां सौ परे अदसो दः सः स्यात् । सेस्तुडौ । असो,