SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [५१] त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते । २।१।३३। त्यदादीनामेतदो द्वितीयायां टायामोसि च परेडन्वादेशेएनद् स्यात्, न तु वृत्त्यन्ते। उद्दिष्टमेतदध्ययनमथो एनदनुजानीत, एतकंसाधुमावश्यकमध्यापय अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः। त्यदामिति किम् ? संज्ञायामेतदं संगृहाण अथो एतदमध्यापय । अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य ॥ ३३ ॥ इदमः । २ । १ । ३४। त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलं अथो एनयोर्महती कीर्तिः ॥ ३४ ॥ - अदयञ्जने । २ । १ । ३५। त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । अनगिति वक्ष्यमाणादिह साकोऽपि विधिः ॥३५॥ अनक् । २ । १ । ३६ । त्यदादेव्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अः स्यात् । आभ्याम्, आभिः, एषु, आसु । अनगिति किम् ? इमकाभ्याम् । त्यदामित्येव ? अतीदंभ्याम् ॥ ३६ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy