________________
५०]
हैमशब्दानुशासनस्य ज्ञानं युष्मांश्च रक्षतु। एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानश्च शीलश्च ते स्वम् ॥ २९ ॥
दृश्यर्थश्चिन्तायाम् । २।१ । ३०।। दृशिनासमानार्थैश्चिन्तार्थैर्धातुभिर्योंगे युष्मदस्मदोर्वस्नसादिनस्यात्।जनो युष्मान् सन्दृश्यागतः,जनोऽस्मान् सन्दृश्यागतः। जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः। जनस्त्वामपेक्षते, जनो मामपेक्षते। सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥३०॥
नित्यमन्वादेशे । २ । १ । ३१ । किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशः, तस्मिन् विषये पदात् परयोयुष्मदस्मदोर्वस्नसादिनित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति । धनवांस्त्वमथो त्वा लोको मानयति, धनवानहमथोमा लोकोमानयति ॥३१॥
सपूर्वात् प्रथमान्तादा । २ । १ । ३२। । विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयोर्युष्मद स्मदोरन्वादेशे वस्नसादिर्वा स्यात् । यूयं विनीतास्तद् गुरवो वोमानयन्ति, तद् गुरवो युष्मान मानयन्ति। वयं विनीतास्तद् गुरवो नो मानयन्ति, तद् गुरवोऽस्मान् मानयन्ति । युवांसुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते, तज्ज्ञानमावाभ्यां दीयते ॥ ३२ ॥