________________
स्वोपज्ञलघुवृत्तिः [४९] जस्विशेष्यं वाऽऽमन्त्र्ये । २ । १ । २६ । युष्मदस्मद्भयां पूर्व जसन्तमामन्याथै विशेष्यवाच्यामध्ये पदेऽर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिनाः! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः!शरण्या वः शरणं प्रपद्ये । जिनाः! शरण्या अस्मान् रक्षत, जिनाः ! शरण्या नो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथो रक्ष । विशष्यमिति किम् ? शरण्याः साधवो! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्या युष्मान् शरण्याः शरणं प्रपद्ये। अर्थात्तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये ॥ २६ ॥
नान्यत् । २ । १ । २७ । युष्मदस्मद्भयाम् पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो! सुविहित! त्वा शरणं प्रपद्ये । साधो सुविहित !मा रक्ष॥२७॥
पादाद्योः।२।१ | २८।। नियतपरिमाणमात्राक्षरपिण्डः पादः। पदात् परयोः पादस्यादिस्थयोयुष्मदस्मदोर्वस्नसादिन स्यात् । . . “वीरो विश्वेश्वरो देवो, युस्माकं कुलदेवता।
स एव नाथो भगवानस्माकं पापनाशनः ॥१॥" पादाद्योरिति किम् ?
"पान्तु वो देशनाकाले, जैनेन्द्रा दशनांशवः । भवकूपपतजन्तु-जातोद्धरणरज्जवः॥ २॥ ॥ २८ ।।
चाहहवैवयोगे । २ । १ । २९। । एभिर्योगे पदात्परयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् ।