________________
[४८] हैमशब्दानुशासनस्य एवं चतुर्थी-षष्ठीभ्यामपि । पदादिति किम् ? युष्मान पातु। युग्विभक्त्येति किम् ? तीर्थे यूयं यात। एकवाक्य इति किम् ? आतियुष्मान् पश्य, ओदनं पचत, युष्माकं भविध्यति ॥ २१॥
दित्वे वाम्नौ । २ । १ । २२ । पदात् परयोयुन्मदस्मदोर्द्वित्वाविषयया युग्विभत्त्या सह यथासंख्यं वाम् नौ इत्येतौ वा स्याताम् । एकवाक्ये । धर्मो वां पातु, धर्मो युवां पातु, धर्मो नौ पातु, धर्म आवां पातु, एवं चतुर्थीषष्ठीभ्यामपि ॥ २२ ॥
डेङसा ते मे । २ । १ । २३ । डेङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं ते मे इत्येतौ वा स्याताम् । एकवाक्ये । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते, धर्मो मे दीयते, धर्मो मां दीयते, धर्मस्ते स्वम् , धर्मस्तव स्वम्, धम्मो मे स्वम् , धम्मो मम स्वम् ॥ २३॥
अमा त्वा मा । २ । ९ । २४ । अमा सह पदात् परयोयुष्मदस्मदोर्यथासंख्य त्वामा इत्येतो वा स्याताम् । एकवाक्ये । धर्मस्त्वा पातु, धर्मस्त्वां पातु, धर्मो मा पातु, धर्मो मां पातु ॥ २४ ॥
असदिवामन्त्र्यं पूर्वम् । २ । १ | २५। आमन्त्र्यार्थ पदं युष्मदस्मद्भ्यां पूर्वमसादिव स्यात् । जना! युष्मान् पातु धर्मः, साधू! युवां पातु धमः, साधो! त्वां पातु तपः । पूर्वमिति किम् । मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ॥२५॥