________________
स्वोपज्ञलघुवृत्तिः [४७] अमौ मः ।२।१ । १६ । युष्मदस्मद्भयाम् परयोरम् औ इत्येतयोर्म इति स्यात्। त्वाम् , माम् , अतित्वाम् , अतिमाम् , युवाम् , आवाम् , अतियुवाम् , अत्यावाम् ॥ १६ ॥
शसो नः । २ । १ । १७ । ___ युष्मदस्मद्भ्यां परस्य शसोनइति स्यात्। युष्मान् , अस्मान् , प्रियत्वान् , प्रियमान् ॥ १७ ॥
अभ्यम् भ्यसः । २ । १ । १८ । युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यं स्यात्। युष्मभ्यम् , अस्मभ्यम् , अतियुवभ्यम् । अत्यावभ्यम् ॥ १८ ॥
डासेश्चाद् । २ । १ । १९ । युष्मदस्मद्भ्यां परस्य डसेः पञ्चमीभ्यसाच अद् इति स्यात् । त्वद् ,मद् ,अतियुवद्, अत्यावद् , युष्मद्, अस्मद्, अतित्वद्, अतिमद् ॥ १९॥ . आम आकम् । २ । १ । २० ।
युष्मदस्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् . अस्माकम्, अतियुवाकम्, अत्यावाकम्, युष्मानस्मान् वाऽऽचक्षाणानां युष्माकम् , अस्माकम् ॥ २० ॥ पदायुविभक्त्यैकवाक्ये वस्नसौ बहुत्वे । २।१।२१ ।
बहुत्वविषयया समविभक्त्या सह पदात् परयोयुमदस्मदोर्यथासंख्यं वस्नसो वा स्याताम् । तच्चत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यं विधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेऽपि । धर्मो वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, धर्मोऽस्मान् रक्षतु ।