________________
[६] हैमशब्दानुशासनस्य . त्वमौ प्रत्ययात्तरपदे चैकस्मिन् । २ । १ । ११ ।
स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योयुष्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्व म इत्येतौ स्याताम् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , अतित्वासु, अतिमासु, त्वदीया, मदीयः, त्वत्पुत्रः, मत्पुत्रः । प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद्, अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम्, अस्माकम् ॥ ११ ॥
त्वमहं सिना प्राक्चाकः । २ । १ । १२ । सिनासहयुष्मदस्मदोर्यथासंख्यं त्वमहमौ स्याताम्। तो चाक्प्रसङ्गेऽकः प्रागेव । त्वम्, अहम्, अतित्वम्, अत्यहम् । प्राक्चाक इति किम् ? त्वकम्, अहकम् ॥१२॥
यूयं वयं जसा । २।१।१३ । जसा सह युष्मदस्मदोर्यथासंख्यं यूयम्वयमौ स्याताम् । यूयम् , वयम् , प्रिययूयम्, प्रियवयम् । प्राक्चाक इत्येव ? यूयकम् । वयकम् ॥१३॥
तुभ्यं मह्यं ड्या । २ । १ । १४ । ड्या सह युष्मदस्मदोर्यथासंख्यं तुभ्यम्-मयमौ स्याताम् । तुभ्यम् , मह्यम् , प्रियतुभ्यम्, प्रियमह्यम् ।प्राक्चाक इत्येव ? तुभ्यकम् , मह्यकम् ॥ १४ ॥
तव मम डसा । २।१ । १५ ॥ ङसा सह युष्मदस्मदोर्यथासंख्यं तव ममौ स्याताम्। तव, मम, प्रियतव, प्रियमम, प्राक्चाक इत्येव ? तवक, ममक॥१५॥