________________
स्वोपालपुतिः [४५] रासुः अतिराभ्याम् कुलाभ्याम् । व्यञ्जन इति किम् ? रायः ॥५॥
युष्मदस्मदोः।२।१।६। व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । त्वाम्, माम्, अतित्वाम् , अतिमाम् , युष्मासु, अस्मासु ॥६॥
टाउ-योसि यः।१।१।६। टायोस्सु परेषु युष्मदस्मदोर्यः स्यात्। त्वया, मया, अतियुवया, अत्यावया, त्वयि, मयि, युवयोः, आवयोः। टायोसीति किम् ? त्वत्। मत् ॥ ७ ॥
शेषे लुछ । २ । १।७। यस्मिन्नायौ कृतौ ततोऽन्यः शेषः,तस्मिन् स्यादौ परे युष्मदस्मदोलक् स्यात्।युष्मभ्यम् ,अस्मभ्यम् ,अतित्वत् अतिमत्, शेष इति किम् ? त्वयि । मयि ॥ ८॥
मोर्वा । २।१।९। शेषे स्यादौ परे युष्मदस्मदोर्मोलग् वा स्यात् । युवाम् युष्मान्वा आवाम् अस्मान्वा आचक्षाणेभ्यो णिचि विपि च लुकि च।युष्मभ्यम् , युषभ्यम् । अस्मभ्यम् , असभ्यम्
__मन्तस्य युवावौ द्वयोः।२।१।१०।
द्वयर्थवृत्त्योयुष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यं युव आव इत्येतौ स्याताम् । युवाम् , आवाम् , अतियुवाम् , अत्यावाम् , अतियुवासु, अत्यावासु, मन्तस्येति किम् ? युवयोः। आवयोरित्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव ? युवयोः पुत्रो युष्मत्पुत्रः ॥१०॥