________________
स्वोपज्ञलघुतिः . [१] वाः शेषे । १।४।०२। आमच्यविहितात्सेरन्यो घुटशेषस्तस्मिन्पर अनडुच्चतुरोरुतो वाः स्यात् । अनड्वान् , अनड्वाही प्रिया त्वाः, प्रियचत्वारो। शेष इति किम् ? हे अनड्बन् । हे प्रियचत्वः ! ॥ ८२ ॥
सख्युरितोऽशावेत् । २ । ४ । ८३। सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐत् स्यात् । सखायौ, सखायः, सवायम् । इत इति किम् ? सख्यो स्त्रियो । अशाविति किम् ? अतिसखीनि । शेष इत्येव ? हे सखे ! ॥ ८३ ॥ ऋदुशनस्पुरुदंशोऽनेहसश्च से । १ । ४ । ८४ ।
ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेट स्यात् । पिता, अतिपिता, कर्ता, उशना, पुरुदंशा, अनेहा सखा ॥ ८४ ॥
___नि दीर्घः । १ । ४ । ८५। - शेषे घुटि परे यो नस्तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा, राजानौ, राजानः, राजानम् । वनानि, कर्तृणि । शेष इत्येव ? हे राजन् ! ।। ८५ ॥
स्महतोः। १ । ४ । ८६ । · सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्थः स्यात्। श्रेयान् , श्रयांसो। महान् , महान्तौ ॥ ८६ ॥
६