________________
[४०] हैमशब्दानुशासनस्य गाः । द्याम्, अतिद्याम्, द्याः, सुद्याः ।। ७५ ॥
पथिन्मथिनृभुक्षः सौ । १४।७६ । एषां नान्तानामन्तस्य सौ परे आः स्यात् । पन्थाः, हे पन्थाः|मन्थाः, हेमन्थाः! ऋभुक्षाः,हे ऋभुक्षानान्तनिर्देशादिह न स्यात्-पन्थानमैच्छत् पथीः ।। ७६ ॥ .
एः । १ । ४ । ७७।। पथ्यादीनां नान्तानामितो घुटि परे आः स्यात् । पन्थाः पन्थानौ, पन्थानः, पन्थानम् , सुपन्थानि कुलानि । मन्थाः ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्-पथ्यौ, पथ्यः।।७७॥
थोन्थ् । १।४ । ७८। पथिन्मथिनोन्तियोस्थस्य घुटि परे न्थ्स्यात् । तथैवोदाहृतम् ॥ ७८॥
इन डीस्वरे लुक् । १ । ४ । ७९॥ पथ्यादीनां नान्तानां ड्यामधुस्वरादौ च स्यादौ परे इन लुक् स्यात् । सुपथी स्त्री कुले वा, पथः । सुमथी स्त्री कुले वा, मथः । अनुभुक्षी सेना कुले वा, ऋभुक्षः ॥७९॥
वोशनसो नश्चामन्त्र्ये सौ । १ । ४ । ८०।
आमन्त्र्यवृत्तेरुशनसो नलुको सौ परे वा स्याताम् । हे उशनन् !, हे उशन!, हे उशनः। आमात्र्य इति किम् ? उशना ॥ ८॥
उतोऽनडुच्चतुरो कः । १।४।८१। . आमन्त्र्यवृत्त्योरनडुच्चतुरोरुतः सौ परे. वः स्यात् । हे अनड्वन् ! । हे प्रियचत्वः ।। हे अतिचत्वः ! ॥८१॥