SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३९] त्कार्य वक्ष्यते तद् घुटि वेदितव्यम् ॥ ६८॥ अचः।१।४।६९। अञ्चतेर्धातोवुडन्तस्य धुटा प्राक् नोऽन्तो घुटि स्यात् । प्राक, अतिप्राङ्, प्राञ्चौ । प्राश्चि कुलानि ॥ ६९ ॥ . ऋदुदितः । १।४।६०। ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तः स्यात् । कुर्वन् , विद्वान्, गोमान् । घुटीत्येव ? गोमता ॥ ७० ॥ युज्रोऽसमासे । १।४।७१। _ "युजूंपी योगे" इत्यस्यासमासे धुडन्तस्य धुटः प्राक् नोऽन्तः स्यात् । युङ, युञ्जौ। युञ्जि कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? "युजिंच समाधौ" । युजमापन्ना मुनयः॥ ७१ ॥ अनडुहः सौ । १।४ ७२ । अनडुहो धुडन्तस्य धुरः प्राक् सौ परेनोऽन्तः स्यात् । अनड्वान् , प्रियानड्वान् ॥ ७२ ॥ _पुंसोः पुमन्स् । १। ४।७३ । पुंसोः पुमन्म घुटि स्यात् । पुमान, पुमांसो, पुमांसः। प्रियपुमान्, प्रियपुमांसि ॥ ७३ ॥ ओत औः । १।४।७४। ओतो घुटि परे औः स्यात् । गौः, गावी । द्यौः, द्यावौ। प्रियद्यावी । ओत इति किम् ? चित्रगुः ॥७४॥ - आ अम्शसोऽता । १।४।७५ । ओतोम्-शसोरता सह आः स्यात् । गाम्, सुगाम् ,
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy