________________
[३८] . हैमशब्दानुशासनस्य दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् । १ । ४ । ६३ ।
एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् दना, अतिदन्ना। अस्था, अत्यस्थ्नासक्थ्ना, अतिसक्थ्ना । अक्ष्णा, अत्यक्ष्णा ।। ६३ ।।
अनामस्वरे नोऽन्तः। १ । ४ । ६४ । नाम्यन्तस्य नपुंसकस्याऽऽम्वः स्यादौ स्वरे परेनोऽन्तः स्यात् । वारिणी, वारिणः । कर्तृणी, कर्तृणः । प्रियतिसृणः अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे बारे! स्यादावित्येव ? तौम्बुरवं चूर्णम् ॥ ६४ ॥
स्वराच्छौ। १.४ । ६५। शौ परे स्वरान्तानपुंसकात्परो नोऽन्तः स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ॥ ६५ ।।
धुटां प्राक् । १ । ४ । ६६ । स्वरात्परा या धुटजातिस्तदन्तस्य नपुंसकस्य शो परे धुड्भ्य एव प्राग नोऽन्तः स्यात् । पयांसि, अतिजरांसि, काष्टतक्षि । स्वरादित्येव ? 'गोमन्ति ॥ ६६ ॥
लोवा। १ । ४ । ६७ । रलाभ्याम् परा या धुटजातिस्तदन्तस्य नपुंसकस्य शो परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् । यहञ्जि, यहूर्जि । सुवल्ङ्गि, सुवल्गि । ल इति किम् ? काष्टतक्षि । धुटामित्येव ? सुफुल्लि ।। ६७॥
घुटि । १ । ४ । ६८। निमित्तविशेषोपादानं विना आपादपरिसमाप्तेर्य१ अत्र "ऋदुदितः" इत्यनेन सूत्रेण नोऽन्तो भवति ।