________________
-
-
-
स्वोपज्ञलघुतिः [३७]
औरोः। १ । ४ । ५६ । ... नपुंसकस्य औरीः स्यात् । कुण्डे । पयसी ॥५६ ।। . .. .. अतः स्यमोऽम् । १ । ४ । ५७ । _ अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम्, हे कुण्ड ! ।। ५७ ॥ .. पञ्चतोऽन्यादेरनेकतरस्य दः । १ । ४ । ५८।
पश्चपरिमाणस्य नपुंसकस्यान्यादेः स्यमोदः स्यात् । एकतरवर्जम् । अन्यत्, अन्यतरत्, इतरत्, कतरत्, कतमत् । अनेकतरस्येति किम् ? एकतरम् ॥ ५८ ॥
अनतो लुप् । १ । ४ । ५९। अनकारान्तस्य नपुंसकस्य स्यमोर्लए स्यात् । कर्तृ, पयः ॥५९ ॥
जरसो वा । १।४।६०। जरसन्तस्य नपुंसकस्य स्यमो ब्वा स्यात्। अतिजरः, अतिजरसम्, अतिजरम् ॥६०॥
नामिनो लुग्वा । १।४ । ६१ । नाम्यन्तस्य नपुंसकस्य स्यमोटुंग्वा स्यात् । हे वारे, हे वारि! । प्रियतिस, प्रियत्रि कुलम् ॥ ६१ ॥
वाऽन्यतः पुमांष्टादौ स्वरे । १।४ । ६२। . अन्यतो विशेष्यवशानपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद्वा स्यात् । ग्रामण्या ग्रामणिना कुलेन, कत्रों कर्तृणोः कुलयोः। अन्यत इति किम् ? पीलुने फलाय । टादाविति किम्? शुचिनी कुले, नपुंसक इत्येव?, कल्याण्यै स्त्रियै ॥ ६२॥