SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [३६] हेमशब्दानुशासनस्य शसोऽता सश्च नः पुंसि । १ । ४ । ४९ । शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् । तत्सन्नियोगे च पुंसि शसः सो नः। देवान, मुनीन्, वातप्रमीन्, साधून , हूहून् , पितृन् । पुंसीति किम् ? शालाः ॥ ४९ ॥ संख्यासायवरह्नस्याहन को वा । १ । ४ । ५० __संख्यावाचिभ्यः साय-विभ्यां च परस्याह्नस्य डो परेऽहन्वा स्यात् । यहनि, द्वयह्नि, त्यहने । सायाहनि, सायानि, सायाह्ने । व्यहनि, व्यनि, व्यड्ने ॥ ५० ॥ निय आम् । १।४। ५१ । । नियः परस्य डेराम् स्यात्। नियाम् । ग्रामण्याम् ॥५१॥ वाटन आः स्यादौ । १ । ४ । ५२। । अष्टनः स्यादौ परे आ वा स्यात् । अष्टाभिः अष्टभिः। प्रियाष्टाः, प्रियाष्टा ॥ ५२ ॥ अष्ट औजस्शसोः। १ । ४ । ५३ । अष्टनः कृतात्वस्य जस्शसोरौः स्यात् । अष्टौ, अष्टौ डतिष्णः संख्यया लुप् । १ । ४ । ५४ । डति-ष-नान्तानां संख्यानां जस्शसोलुंगू स्यात् । कति, कति । षट्, षट् । पञ्च, पञ्च ॥ ५४ ॥ नपुंसकस्य शिः।१।४। ५५। . नपुंसकस्य जस्शसोशिःस्यात् । कुण्डानि, पयांसि
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy