________________
[४२] . हैमशब्दानुशासनस्य
इन्हन्पूषार्यम्णः शिस्योः । १ । ४ । ८७॥
इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् । दण्डीनि, स्रग्वीणि, दण्डी, स्रग्वी, भ्रूणहानि, भ्रूणहा, बहुपूषाणि, पूषा, स्वर्यमाणि, अर्यमा। शिस्यो. रेवेति किम् ? दण्डिनौ, वृत्रहणौ, पूषणो, अर्यमणौ ।८७॥
अपः । १।४।८८। अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः, स्वापौ ।। ८८॥
नि वा । १।४।०९।। अपः स्वरस्य नागमे सतिं घुटि परे दीर्थो वा स्यात् । स्वाम्पि, स्वम्पि । बह्वाम्पि, बह्वम्पि ॥ ८९ ।।
अभ्वादेरत्वसः सौ । १ । ४ ।९०॥ अत्वन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषेसो परेदीर्घः स्यात् । भवान् , यवमान् , अप्सराः।गोमन्तम् स्थूलशिरसम् वेच्छन् गोमान् स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः॥९॥
क्रुशस्तुनस्तृच पुंसि । १ । ४ । ९१ । क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात्, पुंसि। कोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशकोप्टूनि वनानि ॥ ९१॥
टादौ स्वरे वा । १।४ । ९२ । टादौ स्वरादौ परे क्रुशस्तुनस्तृज् वा स्यात् पुंसि । क्रोष्ट्रा, कोष्टुना क्रोष्ट्रोः, क्रोष्ट्वोः ॥ ९२ ॥