SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ___ स्वोपज्ञलघुवृत्तिः [३३] अतिभ्रुवे । पुंसे स्त्रियै वा । इयुव इति किम् ? आध्यै । अस्त्रिया इति किम् ? स्त्रियै ।। ३० ॥ आमो नाम् वा । १।४।३१। इयुवोः स्थांनिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात् । न तु स्त्रियाः। श्रीणाम्, श्रियाम् । भ्रूणाम्, भ्रुवाम् । अतिश्रीणाम्, अतिश्रियाम् । अतिभ्रूणाम्, अतिभ्रुवाम् नृणाम् स्त्रीणाम् वा। इयुव इत्येव ? । प्रधीनाम् ॥ ३१ ॥ हस्वापश्च । १।४।३२। ह्रस्वान्तादावन्तात् स्त्रीदूदन्ताच परस्यामो नाम् स्यात्। देवानाम्, मालानाम्, स्त्रीणाम्. वधूनाम् ॥ ३२ ॥ संख्यानां र्णाम् । १ । ४।३३। रषनान्तानां संख्यांवाचिनामामो नाम् स्यात् । चतुर्णाम, षण्णाम्, पञ्चानाम्, अष्टानाम् ॥३३॥ स्त्रयः । १ । ४ । ३४। आमः सम्बन्धिनस्त्रेस्त्रयः स्यात्। त्रयाणाम्, परमत्रयाणाम् ॥ ३४ ॥ एदोद्भयां ङसिङसो रः । १ । ४।३५/ एदोद्भ्यां परयो प्रत्येकं ङसि-ङसो र स्यात् । मुनेः, मुनेः । धेनोः, धेनोः। गोः, गोः । द्योः, द्योः॥३५॥ .. खिति-खीतीय उर् | १ । ४ । ३६ । खि-ति-खी-तीसम्बन्धिनोर्यात्परयोसिङसोरुर् स्यात्। सख्युः, सख्युः । पत्युः, पत्युः । मखायं पतिं चेच्छतः
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy