SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [३२] हैमशब्दानुशासनस्य ति, सख्यि, पत्यि । केवलेति किम् ? प्रियसखौ, नरपतौ न ना डि देत् । १ । ४ । २७। केवलसखिपतेर्यष्टाया ना डिति परे एचोक्तः स न स्यात् । सख्या, पत्या, सख्ये, पत्ये, सख्युः, पत्युः आगतं स्वं वा । सख्यौ, पत्यौ । डिदिति किम् ? पतयः ॥२७॥ स्त्रिया डि-तां वा दैदासदासुदाम् । १ । ४ । २८॥ स्त्रीलिङ्गादिदुदन्तात्परेषाम् हिताम् डे-डसि-उसडीनाम् यथासंख्यं दै दास् दास् दामो वा स्युः । बुद्धयै, बुद्धये । बुद्ध्याः , बुद्धेः आगतम् स्वम् वा.। बुद्धयाम् बुद्धौ । धेन्वै, धेनवे । धेन्वाः, धेनोः । धेन्वाम्, धेनौ । प्रियबुद्ध्यै, प्रियबुद्धये पुंसे स्त्रियै वा ॥ २८ ॥ स्त्रीदूतः । १। ४ । २९ । नित्य स्त्रीलिङ्गादीदूदन्ताच्च परेषां स्यादेर्डिताम् यथासंख्यं दै-दास्-दास्-दामः स्युः। नये, नद्याः, नद्याः, नद्याम् । कुवै, कुर्वाः, कुर्वाः, कुर्ताम् । अतिलक्ष्म्यै पुंसे स्त्रियैवा। स्त्रीति किम्? ग्रामण्ये, खलप्वे पुंसे स्त्रिये ॥२९।। वेयुवोऽस्त्रियाः। १।४।३०। इयुवस्थानिनौ यो स्त्रीदूतौ तदन्तात् स्त्रीवर्जात्परेषाम् स्यादेर्डिताम् यथासंख्यम् दै-दाम-दाम-दामो वा स्युः। श्रियै, श्रिये । श्रियाः, श्रियः २ । श्रियाम् , श्रियि। अतिश्रियै, अतिश्रिये । पुंसे स्त्रियै वा । भूवै, ध्रुवे । भ्रुवाः, ध्रुवः। भ्रवाः ध्रुवः । भ्रुवाम् श्रुवि । अति वै,
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy