________________
. स्वोपज्ञलघुवृत्तिः [३१]
औता । १ । ४ । २० । ___ आवन्तस्य औता सहैकारः स्थात् । माले स्तः पश्य वा ॥२०॥
इदुतोऽस्नेरीदूत् । १४।२१। स्त्रेरन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् इंदूतौ स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ॥ २१ ॥
जस्येदोत् । १।४।२२। इदुदन्तयोर्जसि परे यथासंख्यमेदोतौ स्याताम् । मुनय साधवः ॥ २२ ॥
डि त्यदिति । १ । ४ । २३ । अदिति डिंति स्यादौ परे इदुदन्तयोर्यथासंख्यमेदोतो स्याताम् । अतिस्त्रये, साधवे, अतिस्त्रेः साधोरागतं स्वम् वा । अदितीति किम् ? बुद्ध्याः, धेन्वाः । स्यादावित्येव ? शुची स्त्री ॥ २३ ॥
टः पुंसि ना। १। ४ । २४ । इदुदन्तात्परस्याः पुंविषयायाष्टाया ना स्यात् । अति'स्त्रिणा, अमुना । पुंसीति किम् ? बुद्धया ।। २४ ॥
डि डौं । १ । ४ । २५ ।। - इवुदन्तात्परो डिडौंः स्यात् । मुनौ, धेनौ । अदिदित्येव ? बुद्ध्याम् ॥ २५॥
केवलसखिपतेरौः। १ । ४ । २६ । . केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् । सख्यौ, पत्यौ। इत इत्येव ? सखायमिच्छति, पतिमिच्छ