________________
[३४] हैमशब्दानुशासनस्य सख्युः २, पत्युः २।य इति किम् ? अतिसखेः, अधिपतेः ॥३६ ॥
ऋतो डुर । १ । ४।३७। ऋतः परयोः ङसिङसोडुर् स्यात् । पितुः, पितुः॥३७॥ तृ-स्वसृ-नप्त-नेट-त्वष्ट–क्षत्त-होतृ-पोतृ-प्रशास्त्रो
घुट्यार । १ । ४।३८ । तृच् तन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात्। कर्तारम्, कत्तारौ २, कर्तारः। स्वसारम्, नप्तारम्, नेष्टारम्, त्वष्टारम्, क्षत्तारम्, होतारम्, पोतारम्, प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलम् पश्य ॥३८॥
- अझै च । १ । ४ । ३९ । ऋतो ङौ घुटि च परे अर् स्यात् । नरि । नरम् ॥ ३९॥ मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये। १ । ४।४०।
मातुरामध्ये पुत्रे वर्तमानस्य सिना सह मातः स्यात् अर्ह-प्रशंसायाम्। हे गार्गीमात!| पुत्र इति किम् ? हे मातः! हेगार्गीमातृके वत्से! । अर्ह इति किम् । अरे गार्गीमातृक! ॥४०॥
हस्वस्य गुणः । १।४।४१ । . आमच्यार्थवृत्तेईस्वान्तस्य सिना सह गुणः स्यात् । हे पितः !, हे मुने ! ॥४१॥
एदापः । १।४। ४२ । आमन्न्यार्थवृत्तेरावन्तस्य सिना सहकारः स्यात् । हे माले !, हे बहुराजे ! ॥ ४२ ॥