SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । [२५] विरामे वा। १।३। ५१ । विरामस्थस्याशिटो धुटः प्रथमो वा स्यात् । वाक्, घाग् ॥५१॥ . न सन्धिः । १।३। ५२ । उक्तो वक्ष्यमाणश्च सन्धिविरामे न स्यात् । दधि अत्र, तद् लुनाति ॥ ५२ ॥ .. रः पदान्ते विसर्गस्तयोः । १ । ३ । ५३ । पदान्तस्थस्य रस्य तयोविरामाघोषयोर्विसर्गः स्यात्। वृक्षः, स्वः, काकृती । पदान्त इति किम् ? इर्ते ॥५३ ॥ . ख्यागि । १।३ । ५४ । पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । का ख्यातः । नमः ख्याने ॥ ५४॥ शिट्यघोषात् । १।३। ५५ । .. अघोषात्परे शिटि परतः पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः सरुकः, सर्पिः प्साति, वासः क्षौमम् , अद्भिः प्सातम् ॥ ५५॥ व्यत्यये लुग्खा। १।३। ५६ । शिटः परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् । चक्षुश्च्योतति, चक्षुः श्च्योतति चक्षुश्श्चोतति ॥ ५६ ॥ . अरोः सुपि रः । १।३ । ५७ । रोरन्यस्य रस्य सुपि र एव स्यात् । गीर्षु, धूर्षु, . अरोरिति किम् ? पयस्सु ।। ५७॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy