SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ है मशब्दानुशासनस्य वाहर्पत्यादयः | १ | ३ | ५८ । अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभा वाचवा स्युः । अहर्पतिः, अहः पतिः । गीपतिः, गीः पतिः । प्रचेता राजन्, प्रचेतोराजन् ॥ ५८ ॥ [२६] शिव्याद्यस्य द्वितीयो वा । १ । ३ । ५९ । प्रथमस्य शिटि परे द्वितीयो वा स्यात् । रुषीरम्, क्षीरम् | अफ्सराः, अप्सराः ॥ ५९ ॥ तवर्गस्य ववष्टवर्गाभ्यां योगे चटवर्गौ । १ । ३ । ६० । तवर्गस्य शचवर्गाभ्यां पदवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गौ स्याताम् । तच्शेते, भवाञ्शेते, तच्चारु तज्जकारण, पेष्टा, पूष्णः, तदृकारः, तण्णकारेण, ईट्टे ॥ ६० ॥ सस्य शषौ | १ | ३ | ६१ ॥ सस्य चवर्गष्टवर्गाभ्यां योगे यथासंख्यं शषौ स्याताम् । चवर्गेण - इच्योतनि, वृश्चति । पेण-दोष्षु । टवर्गेणपापट् ि॥ ६१ ॥ न शात् । १ । ३ । ६२ । शात्परस्य तवर्गस्य चत्रर्गो न स्यात् । अश्नाति, प्रश्न: ॥ ६२ ॥ पदान्ताट्टवर्गादिनाम्नगरीनवतेः । १ । ३ । ६३ । पदान्तस्थावर्गात्परस्य नाम्नगरीनवतिवर्जस्य तवर्गस्य सस्य च टवर्गषौ न स्याताम् । षण्मयं, षण्नयाः, षट्सु । अनाम्नगरीनवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः ॥ ६३ ॥ 1
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy