________________
स्वोपज्ञलघुवृत्तिः [२३] - शुमारी, पुत्रादिनीति वा। पुत्त्रपुत्रादिनी नागी, पुत्रपुत्रादिनीति वा ॥ ३८॥
नां धुट्वर्गेऽन्त्यो पदान्ते। १ । ३ । ३९।। __ अपदान्तस्थानाम् मनानाम् धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात्। गन्ता, शङ्किता, कम्पिता। धुडितिकिम् ? आहन्महे । धुवर्ग इति किम् ? गम्यते। अपदा- . न्त इति किम् ? भवान् करोति ॥ ३९ ॥
शिड्हेऽनुस्वारः। १।३ । ४०। अपदान्तस्थानाम् नाम् शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् ॥ ४० ॥ - रो रे लुग्दीघश्वादिदुतः। १।३। ४१।
रस्य रे परेऽनु लुक् स्यात् । अइऊनाश्च दीर्घः। पुना रात्रिः, अग्नीरथेन, पटूराजा। अनु इत्येव ? अहोरूपम्
ढस्तड्ढे । १ । ३ । ४२ । तन्निमित्ते ढे परे ढस्यानु लुक् स्यात्। दीर्घश्चादिदुतः। माढिः, लीढम् , गूढम् , तड्ढ इति किम् ? मधुलिड्डौकते .॥४२॥
सहिवहेरोचाऽवर्णस्य । १ । ३ । ४३ । सहिवह्योर्दस्य तड्ढे परेऽनु लुक् स्यात् । ओचाऽवर्णस्य । सोढा, उदवोढाम् ॥ ४३॥
उदः स्थास्तम्भाःसः १ । ३ । ४४ । ... उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता, उत्तम्भिता ॥४४॥