________________
[२२] हैमशब्दानुशासनस्य
अदीर्घाद्विरामैकव्यञ्जने । १ । ३ । ३२ ।
अदीर्घात्स्वरात्परस्य रहस्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वेरूपे वा स्याताम् । त्वक्छ, त्वक् । दध्यत्र, दध्यत्र । गोइत्रात, गोश्त्रात । अर्हस्वरस्थेत्येव ? वर्या, वा, तितउ ॥ ३२ ॥ .
अवर्गस्यान्तस्थातः १ । ३ । ३३ । 'अन्तस्थातः परस्य वर्जवर्गस्य अनु द्वे रूपे वा स्याताम् । उल्का, उल्का । अत्रितिकिम् ? हल्ली ॥३३॥
ततोऽस्याः । १ । ३ । ३४। ततोऽञ्वर्गात्परस्या अस्या अन्तस्थाया द्वे रूपे वा । स्याताम् । दध्य्यत्र, दध्यत्र ॥ ३४ ॥
शिटः प्रथमद्वितीयस्य । १ । ३ । ३५। शिटः परयोः प्रथमद्वितीययोर्द्व रुपे वा स्याताम् त्वं करोषि, त्वं करोषि। त्वं क्खनसि, त्वं खनसि ॥३५॥
ततः शिटः । १ । ३ । ३६ । ततः प्रथमद्वितीयाभ्यां परस्य शिटो द्वे रूपे वा म्याताम् । तचश्शेते, तच्शेते ॥ ३६॥
न रात्स्वरे। १।३ । ३७ । रात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ॥ ३७॥
पुत्रस्यादिन् पुत्रादिन्याक्रोशे । १ । ३ । ३८ । __ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे, पुत्रपुत्रादिनी भव। आक्रोश इति किम् ? पुत्त्रादिनी शि