________________
[२१]
स्वोपज्ञलघुवृत्तिः रोर्यः १ । ३ । २६ ।
अवर्णभो भगोअघोभ्यः परस्य पदान्तस्थस्य रोः स्वरे परे यः स्यात् । कयास्ते, देवायासते, भोयत्र, भगोत्र, अघोत्र ॥ २६ ॥
स्वादुङणनो द्वे । १ । ३ । २७ ।
स्वास्परेषां पदान्तस्थानाम् ङणनानाम् स्वरे परे रूपे स्याताम् । क्रुङ्ङास्ते, सुगण्णिह, कृषन्नास्ते ||२७|| अनाङ्माङो दीर्घाद्वाच्छः | १ | ३ | २८ |
आङ् माङ् वर्जदीर्घास्पदान्तस्थास्परस्य छस्य द्वेरूपे वा स्याताम् । कन्याच्छत्रम्, कन्याछत्रम् | अनामाङिति किम् ? आच्छाया, माच्छिदत् ॥ २८ ॥
प्लुताद्वा । १ । ३ । २९ ।
पदान्तस्थादीर्घाप्लुतात्परस्य छस्य द्वे रूपे वा स्याताम् । आगच्छ भी इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्र. मानय ।। २९ ।
स्वरेभ्यः | १ | ३ | ३० ॥
स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति, गच्छति ॥ ३० ॥
स्वरस्यानु नवा । १ । ३ । ३१ ।
स्वरात्पराभ्याम् रहाभ्यां परस्य रहस्वरवर्जस्य वर्णस्य द्वे रूपे वा स्याताम् । अनु कार्यान्तरात्पश्चात् । अर्कः, अर्कः । ब्रम, ब्रह्म । अर्हस्वरस्येति किम् ? पद्महृदः, अर्हः, करः । स्वरेभ्य इत्येव ? अभ्रयते । अन्विति किम् ? प्रोणुनाव ।। ३१ ।।