________________
[२०] हैमशब्दानुशासनस्य
घोषवति । १ । ३ । २१ । आत्परस्य पदान्तस्थस्य रो?षवति परे उः स्यात् । धम्मो जेता ॥ २१ ॥
अवर्णभोभगोऽघोलुंगसन्धिः । १ । ३ । २२ ।
अवर्णागोभगोअघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् । स च न सन्धिहेतुः। देवा यान्ति, भी याति, भगो हस, अघो वद ॥२२॥
. व्योः । १।३ । २३ । अवर्णात्परयोः पदान्तस्थयोर्वययो?षवति परे लुक स्यात्। स चासन्धिः । वृक्षवृश्चमव्ययश्चाचक्षाणो वृक्ष । अव्यय, वृक्षयाति, अव्ययाति ॥ २३ ॥..
स्वरे वा । १।३ । २४ । अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुग्वा स्यात् । स चासन्धिः। पट इह, पटविह। वृक्षा इह, वृक्षाविह। त आहुः, तयाहुः । तस्मा इदम् , तस्मायिदम् । भो अत्र, भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोपत्र ॥ २४ ॥
अस्पष्टाववर्णात्त्वनुत्रि वा। १ । ३ । २५ ।
अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोरस्पष्टावीषत्स्पृष्टतरौ वयौ स्वरे परे स्याताम् । अवर्णात्तु परयोोरजवर्जे खरेऽस्पष्टौ वा स्याताम् । पटवु, असावे, कयु, देवायें, भोपॅत्र, भगोयेंत्र, अघोयत्र । अवर्णास्वनुत्रि वा। पटविह, पटविह २। असाविन्दुः असाविन्दुः, तयिह तहि, तस्मायिदम् तस्मादिम् ॥ २५ ।। .