________________
स्योपशलघुवृत्तिः
[१७] शषसे शषसं वा । १।३।६। पदान्तस्थस्य रस्य शषसेषु परेषु यथासङ्खयं शपसा वा स्युः। करशेते, काशेते। कष्षण्डः, कापण्डः । कस्साधुः, कःसाधुः॥६॥
चटते सद्वितीये। १।३।७। पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासङ्घयं शषसा नित्यं स्युः। कश्वर, कश्छन्नः, कष्टः, कष्ठः, कस्तः, कस्थः ॥ ७॥ नोप्रशानोऽनुस्वरानुनासिकौ च पूर्वस्याधुट्परे ।
१।३।८। - पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शषसा यथासङ्घयं स्युः। अनुस्वारानुनासिकौ चागमादेशौ पूर्वस्य क्रमेण स्याताम् । भवांश्चरः, भवाँश्चरः। भवांछथति, भवांछयति। भवांष्टका, भवाष्टकः। भवांष्ठकारः, भवाँष्ठकारः। भवांस्तनुः, भवाँस्तनुः। भवास्थुडति, भवास्थुडति । अप्रशान् इति किम् ? प्रशाश्वरः। अघुट्परः इति किम् ? मवान्त्सरुकः ॥८॥ . पुमोशिट्यघोषेऽरव्यागि रः। १।३।९। - पुमिति पुंसः संयोगलुक्यऽनुकरणं अधुट्परे अघोषे शियागिवर्जे परे पुमित्येतस्य रः स्यात् । अनुस्वारानुमासिकौ च पूर्वस्य। पुंस्कामा, पुंस्कामा। अशिटीति किम् ? पुंशिरः। अघोषे इति किम् ? पुंदासः। अख्यागीति किम् ? पुंख्यातः। अधुट्पर इत्येव पुंक्षारः ॥९॥