________________
हेमशब्दानुशासनस्य
नूनः पेषु वा । १ । ३ । १० ।
निति सन्तस्यानुकरणम् । नृनः पे परे रो वा स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । नृत्पाहि नृपाहि, नृन्पाहि नृःपाहि नृः पाहि ॥ १० ॥
द्विः कानः कानि सः । १ । ३ । ११ ।
[१८]
कानः किमः शसन्तस्यानुकरणम् । द्विरुक्तस्य कानः कानि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । कस्कान, काँस्कान् । द्विरिति किम् ? कान्कान् पश्यति । ११ । सटि समः । १ । ३ । १२ ।
समः स्सटि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । संस्कर्त्ता, सँस्स्कती । स्सटीति किम् ? संकृतिः
॥ १२ ॥
लुकू । १ । १ । १३ ।
·
समः स्सटि परे लुक् स्यात् । संस्कर्ता ॥ १३ ॥ तौ मुमो व्यंजने स्वौ । १ । ३ । १४ ।
मोम्गमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वौ तावनुस्वाराऽनुनासिको क्रमेण स्याताम् । चंक्रम्यते, चङ्क्रम्यते । ववम्यते, वब्वँम्यते । त्वंकरोषि, त्वङ्करोषि । कंवः, कवः ॥ १४ ॥
मनयवलपरे हे | १ | ३ । १५ ।
मनयवलपरे हे पदान्तस्थस्य मस्याऽनुखाराऽनुनासिकौ क्रमात्स्याताम् । किं मलयति किम्ालयति । किंनुते, किन्नुते । किंाः किंयाँ: । किंहलयति, किव्हॅलयति । किंहादयते, किल्हादयते ॥ १५ ॥