________________
तृतीयः पादः तृतीयश्च पञ्चमे । १ । ३ । १। वेति पदान्त इति अनुनासिक इति च अनुवर्तते। वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परेऽनुनासिको वास्यात्। वाङवते, वाग्ङवते । ककुम्मण्डलम् , ककुमण्डलम् ॥१॥
प्रत्यये च। १।३।२। पदान्तस्थस्य तृतीयस्य प्रत्यये पश्चमे परेनुनासिको नित्यं स्यात् । वाङ्मयम्, षण्णाम् । च उत्तरत्र वा अनुवृत्त्यर्थः ॥२॥
ततो हश्चतुर्थः । १ । ३ । ३ । पदान्तस्थात् ततस्तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात्। वाग्घीनः, वागहीनः। ककुम्भासः, ककुब्हासः ॥३॥
प्रथमादधुटि शश्छः। १ । ३।४। पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक् छूरः वाक्शरः। त्रिष्टुप्छूतम् , त्रिष्टुप्श्रुतम् । अधुटीति किम् ? वाइच्योतति ॥ ४॥
रः कखपफयोः कापौ। १ । ३।५। पदान्तस्थस्य रस्य कखे पफे च परे यथासङ्घयं क ८पौ वा स्याताम् । क : करोति, काकरोति । क खनति, काखनति। कल्पचति, कापचति। कफलति, काफलति