________________
स्वोपज्ञलघुवृत्तिः [१५] सो नवेतो। १।२ । ३८। सिनिमित्त ओदन्त इतौ परेऽसन्धिर्वा स्यात् । पटो इति, पटविति ॥ ३८ ॥
ॐ चोञ् । १।२। ३९। उञ् चादिरितो परेऽसन्धिर्वा स्यात् । असन्धौ च उञ् ॐ इति दीर्घोऽनुनासिको वा स्यात्। उ इति. ॐ इति, विति ॥ ३९ ॥
अवर्गात् स्वरे वो ऽसन्। १ । २। ४०। अवर्जवर्गेभ्यः परःउञ् स्वरे परे वो वा स्यात्, सचासन्। क्रुङ्वास्ते, क्रुडु आस्ते। असत्वाद्वित्वम्॥४०॥ अ इ उ वर्णस्यान्तेऽनुनासिकोऽनीनादेः। १।२।४१। . अ इ उ वर्णानामन्ते विरामेऽनुनासिको वा स्यात् । नचेदेते 'ईदूदे द्विवचनम्' इत्यादि सूत्रसम्बन्धिनः स्युः। साम, साम । खट्वाँ, खट्वा । दधि, दधि। कुमारी, कुमारी । मधु, मधु । अनीदादेरिति किम् । अग्नी, अमी, किमु ॥ ४१॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य द्वितीयपादः समाप्तः ।१।२।।