SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [१४] हैमशब्दानुशासनस्य स्यात् । गो अग्रम् , गवाग्रम् , गोऽयम् । अतीति किम् गवेङ्गितम् ॥३१॥ प्लुतोऽनितौ १ । २ । ३२ । इतिवर्ने स्वरे परे प्लुतः सन्धिभाग् न स्यात् । देवदत्त ३ अनन्वसि। अनिताविति किम् ? सुश्लोकेति॥३२॥ इ ३ वा। १ । २ । ३३ । इ स्थानः प्लुतः स्वरे परेऽसन्धिर्वा स्यात् । लुनीहि ३ इति । लुनीहिति ॥ ३३ ॥ . ईदेद्विवचनम् । १ । २ । ३४ ॥ ई ऊ ए इत्येवमन्तं द्विवचनं स्वरे परेऽसन्धिः स्यात्। मुनी इह, साधू एतौ, माले इमे, पचेते इति । इदूदेदिति किम् ? वृक्षावत्र। द्विवचनमिति किम् ? कुमार्यत्र ॥ ३४॥ अदो मुमी। १ । २ । ३५। अदसः सम्बन्धिनौ मुमी इत्येतौ स्वरे परे ऽसन्धी स्याताम् । अमुमु ईचा । अमी अश्वाः ॥ ३५॥ चादिः स्वरो ऽनाङ्। १ । २ । ३६ । आवर्जश्चादिः स्वरः स्वरे परे ऽसन्धिः स्यात्। अ अपेहि, इ इन्द्रम् पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नु तत् । अनाडिति किम् ? आ इहि एहि॥३६॥. ओदन्तः। १।२ । ३७। . ओदन्तश्चादिः स्वरे परेऽसन्धिः स्यात् । अहो अत्र॥३७॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy