________________
- [१२] हैमशब्दानुशासनस्य परे लुक् स्यात् । प्रेलयति, परेलयति, प्रोषति, परोषति, अनिधिति किम् ? उपैति, प्रैधते ॥ १९ ॥
वा, नाग्नि । १।२।२०।। नामावयवे एदादावोदादौ च धातौ परे उपसर्गावर्णस्य लुग् वा स्यात् । उपेकीयति, उपैकीयति। प्रोषधी यति, प्रौषधीयति ॥ २०॥
इवर्णादेरस्वे स्वरे यवरलम् । १।२।२१।।
इ उ ऋ लु वर्णानामस्वे स्वरे परे यथासङ्घयं य व र ल इत्येते स्युः। दध्यत्र, नयेषा, मध्वत्र, वध्वासनं, पित्रर्थः, क्रादिः, लित्, लाकृतिः ॥ २१॥
इस्वोऽपदे वा । १।२।२२। इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा स्यात् । नचेत्तौ निमित्तनिमित्तिनावेकत्र पदे स्याताम्। नदी एषा, नयेषा। मधु अत्र, मध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः ॥ २२ ॥
एदेतोऽयाय । १ । २२३। एदेतोः स्वरे परे यथासङ्घयं अय् आर् इत्येतौ स्याताम् । नयनम् , वृक्षयेव, नायकः, रायैन्द्री ॥२३॥
ओदौतोऽवात् । १ । २।२४। ओदौतोः स्वरे परे यथासङ्घयं अव आव् इत्येतो स्याताम् । लवनम् . पटवोतुः, लावकः गावौ ॥ २४ ॥ .
व्यक्ये । १।२।२५। . ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासक्यमव