________________
स्वोपज्ञलघुवृत्तिः [११] __ऊटा । १।२।१३। अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः, धौतवान् ॥१३॥ . प्रस्यैषैष्योढोढ्युहे खरेण ।।१।२।१४।।
प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् ॥ प्रैषः, प्रेष्यः, प्रौढः, प्रौढिः, प्रौहः ॥ १४ ॥
स्वैरस्वैर्यक्षौहिण्याम् । १ ।२।१५। . स्वैरादिष्वऽवर्णस्य परेण स्वरेण सह ऐ औ स्याताम्। स्वैरः, स्वैरी, अक्षौहिणी सेना ॥ १५ ॥
अनियोगे लुगेवे । १ ।२।१६। अनियोगो अनवधारणं तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेव तिष्ठ, अद्येव गच्छ, नियोगे तु, इहैव तिष्ठ मागाः॥१६॥ ___वौष्ठौतौ समासे । १।२।१७।
ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्बोष्टी, विम्बौष्ठी, स्थूलोतुः, स्थूलौतुः। समास इति किम् ? हे पुत्रौष्ठं पश्य ॥ १७ ॥
ओमाङि । १।२।१८। . अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अधोम् , सोम् , आ ऊढा, ओढा, अद्योढा, सोढा ॥१८॥
उपसर्गस्यानिणेघेदोति । १।२।१९। . . उपसर्गावर्णस्य इणेधिवजे एदादावोदादौ च धातौ