________________
[१०] हैमशब्दानुशासनस्य अर् अल् इत्येते स्युः। देवेन्द्रः, तवेहा, मालेयम् , सेक्षते, तवोदकम् , तवोढा, तवर्षिः, तवारः, महर्षिः, सर्कारः, तवल्कारः, सल्कारेण ॥ ६ ॥ ऋणे प्रदशाणवसनकम्बस्वत्सरवत्सतरस्यार् ।१।२७)
प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्राणम् , दशार्णम् , ऋणार्णम्, वसनाणम् , कम्बलार्णम् , वत्सरार्णम् , वत्सतरार्णम् ॥ ७ ॥
ऋते तृतीयासमासे । १।२।८1 .. अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर् स्यात् । शीतातः। तृतीयासमास इति किम् ? परमर्तः। समास इति किम् ? दुखेनतः ॥ ८॥ .
ऋत्यारुपसर्गस्य । १।२।९। उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्छति, परार्च्छति ॥९॥
नाम्नि वा । १ । २।१०। उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर्वा स्यात्। प्रार्षभीयति, प्रर्षभीयति ॥१०॥
लत्याल्वा । १।२।११। उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह आल्वा स्यात्। उपाल्कारीयति, उपल्कारीयति॥११।।
ऐदौत् सन्ध्यक्षरैः । १।२।१२। अवर्णस्य सन्ध्यक्षः परैः सह ऐ औ इत्येतो स्याताम् । तवैषा, खट्वैषा, तवैन्द्री, सैन्द्री, तवौदनः, तवीपगवः॥१२॥