________________
स्वोपज्ञलघुवृत्तिः [७] . अधणतस्वाद्या शसः । १ । १ । ३२ ।
धण्वर्जास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नामाव्ययं स्यात्। देवा अर्जुनतोऽभवन् , ततः, तत्र, बहुशः। अधणिति किम् ? पथिद्वैधानि ॥ ३२ ॥ विभक्तिथमन्ततसाद्याभाः। १ । १ । ३३ ।
विभक्तयन्ताभाः, थमवसानतसादिप्रत्ययान्ताभाश्वाऽव्ययानि स्युः। अहंयुः, अस्तिक्षीरा गौः, कथम् , कुतः ॥ ३३ ॥
वत्-तस्याम् । १ । १ । ३४ । वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात्। मुनिवद् वृत्तम् , उरस्तः, उच्चैस्तराम् ॥ ३४ ॥
___ क्त्वा-तुमम् । १ । १ । ३५।
क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात्। कृत्वा, कर्तुम् , यावजीवमदात् ॥ ३५ ॥ ।
गतिः । १।१।३६। । गतिसंज्ञमव्ययं स्यात् । अदाकृत्य। “अतः कृ कमि... ... (२-३-५ पृ. ८९)" इत्यादिना रः सो न स्यात् ॥ ३६॥
अप्रयोगीत् । १ । १ । ३७। इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते, चित्रीयते ॥३७॥
१ अत्र “व्याश्रये तसुः" (पृ० ५४५) सूत्रेण तसुः । 'ततः' इतीह तु "किमद्वयादि..." (पृ. ५४६) सूत्रात् तस् । “तद्वति धण्” (पृ० ५४९) सूत्रेण यो धण् स्यात्तनिषेधः ।