SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [८] हैमशब्दानुशासनस्य अनन्तः पञ्चम्याः प्रत्ययः। १ । १ । ३८।। पञ्चम्याद विहितोऽन्तशब्दानिर्दिष्टः प्रत्ययः स्यात्। "नाम्नः प्रथमैक-द्वि-बहौ” (२-२-३१ पृ. ७०)। वृक्षः। अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् ॥३८॥ डत्यतु संख्यावत् । १ । १। ३९ । । डत्यन्तमत्वन्तं च संख्याकार्यभाक् स्यात् । कतिकः, यावत्कः ॥ ३९॥ बहु-गणं भेदे । १ । १ । ४० । बहुगणशब्दो भेदवृत्ती सङ्घयावत् स्याताम् । बहुका, गणकः। भेद इति किम् ? वैपुल्ये सङ्घ च मा भूत् ॥४०॥ क-समासेऽध्यर्द्वः । १ । १ । ४१ । अध्यर्द्धशब्द के प्रत्यये समासे च विधेये सङ्घयावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥ ४१ ॥ अर्द्धपूर्वपद पूरणः । १ । १ । ४२ । अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये सङ्घयावत् स्यात्। अर्द्धपश्चमकम् , अर्द्धपञ्चमशूर्पम् ॥४२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः॥१।१॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy