SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [६] हैमशब्दानुशासनस्य सविशेषणमाख्यातं वाक्यम् । १ । १ । २६ । . प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात्। धर्मो वो रक्षतु, लुनीहि३ पृथुकाँश्च खाद, शीलं ते स्वम् ॥ २६ ॥ 'अधातुविभक्तिवाक्यमर्थवन्नाम । १ । १ ।२७। . . धातुविभक्त्यन्तवाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात्। वृक्षः, स्वः, धवश्च। अधातुविभक्तिवाक्यमिति किम् ? अहन् , वृक्षान् , साधुर्धर्म ब्रूते ॥ २७ ॥ शिघुट् । १ । १ ॥ २८ __ जस्शसादेशः शिघुट् स्यात् । पद्मानि तिष्ठन्ति पश्य वा ॥२८॥ पुं-स्त्रियोः स्वमो-जस् । १ । १ । २९ । स्यादयः पुंस्त्रीलिङ्ग योर्युटः स्युः। राजा, राजानौ, राजानः, राजानम्, राजानौ, सीमा, सीमानौ, सीमानः, सीमानम् ॥ २९॥ स्वराऽऽदयोऽव्ययम् । १ । १ । ३० । स्वरादयोऽव्ययानि स्युः। स्वर्, अन्तर्, प्रातर् इत्यादि ॥ ३० ॥ चाऽऽदयोऽऽसत्वे । १ । १ । ३१ । अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः। वृक्षश्चेत्यादि ॥ ३१॥ १ अधात्वितिविशेषणात् “नाम्नो नोऽमहः" (पृ. ६.) इत्यादिसूत्रैर्नलोपाऽऽदिकार्य न स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy