________________
स्वोपज्ञलघुवृत्तिः
स्त्यादिर्विभक्तिः । १ । १ । १९ ।
'स्' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप्-स्यामही पर्यन्ता विभक्तयः स्युः ॥ १९ ॥
तदन्तं पदम् । १ । १ । २० ।
स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वं, ददाति नः शास्त्रम् ॥ २० ॥
नाम सिदय्व्यञ्जने । १ । १ । २१ ।
[५]
सिति प्रत्यये, यवजव्यञ्जनादौ च परे पूर्व नाम पदं स्यात् । भवदीयः, पयोभ्याम् । अयिति किम् ? वाच्यति ॥ २१ ॥
नं क्ये | १ | १ | २२ |
'क्ये' इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति, राजायते, चर्मायति ॥ २२ ॥ न स्तं मत्वर्थे | १ | १ | २३ |
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी, तडित्वान् ॥ २३ ॥
मनुर्नभोऽङ्गिरो वति । १ । १ । २४ १
एतानि वति परे पदं न स्युः । मनुष्वत्, नभखत् अङ्गिरस्वत् ।। २४ ।।
वृत्त्यन्तोऽसषे । १ । १ । २५ ।
परार्थाभिधायी समासादिवृत्तिः । तस्या अन्तः - अवसानं पदं न स्यात्, असषे-सस्य तु षत्वे पदमेव । परमदिवौ, बहुदण्डिनौ असष इति किम् ? दधिसेक् ॥ २५ ॥