SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [४] हैमशब्दानुशासनस्य तुल्यस्थानाऽऽस्यप्रयत्नः स्वः । १ । १ । १७। स्थानं कण्ठादि। "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥१॥ - आस्ये प्रयत्नः आस्यप्रयत्नः स्पृष्टतादिः, तुल्यौ वर्णान्तरेण सहशौ स्थानाऽऽस्यप्रयत्नौ यस्य स. वर्णस्तं प्रति स्वः स्यात् । तत्र त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट्। एवं दीर्घप्लुतावित्यष्टादश भेदा अवर्णस्य, ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः। एवमिवर्णास्तावन्तस्तालव्या विवृतकरणाः स्वाः। उवर्णा औष्ठया विवृतकरणाः स्वाः। ऋवर्णा मूर्द्धन्या विवृतकरणाः परस्परं स्वाः। लुवर्णा दन्त्या विवृतकरणाः परस्परं स्वाः। सन्ध्यक्षराणां ह्रस्वा न सन्ति इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततराः स्वाः। ऐकारास्तालव्या अतिविवृततराः स्वाः । ओकारा औष्ठया विवृततराः स्वाः। औकारा ओष्ठया अतिविवृततराः स्वाः। वाः पञ्च पश्च परस्परं स्वाः। यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ॥ १७॥ स्यौ-जसमौ-शस-टा-भ्यां-भिस्-डे-भ्यां-भ्यस्-डसि-भ्यांभ्यस-ङसोसाम्-योस्-सुपां त्रयी त्रयी प्रथमाऽऽदिः । १ । १ । १८। स्यादीनां प्रत्ययानां त्रयीत्रयी यथासङ्घ प्रथमा-द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमी च स्यात् ॥१८॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy