SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ परिशिष्टेषु । यदेवं सामाज्ये विजयिनि वितृष्णेन मनसा .. यशो योगीशानां पिबसि नृप ! सस् कस्य सदृशम् ? ।। २२ ॥ जयस्तम्भान सीमन्यनुजलधिलं निहितवान् वितानैर्ब्रह्माण्डं शुचिमुणगरिष्ठैः पिहितवान् । यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणैः कृतो यात्राऽऽनन्दो विस्मति न कि सिद्धनृपतिः ? ॥ २३ ॥ भूमि कामगवि ! स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तात्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभवः । धृत्वा कल्पफ्तरोदलानि सरलैदिग्वारणास्तोरणा न्याधत्त स्वकरैर्विजित्य जमती नन्वेवि सिद्धाधिपः ॥ २४ ॥ लब्धलक्षा विपक्षेषु विलक्षास्वपि मार्गणाः । तथापि तव सिद्धेन्द्र ! दातेल्युस्तिकं यशः ॥२५॥ उत्साहसाहसवता भवता नरेन्द्र ! धाराव्रतं किमपि तद्विषमं सिषेवे । यस्मात् फलं न खलु मालवमावमेव . श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥२६॥ अयमवनिपतीन्दो ! मालवेन्द्रावरोध- . स्तनकलशपवित्रां पत्रवल्लीं. लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति पटिमानं भग्नधारस्तवासिः ? ॥२७॥ क्षितिधव ! भवदीयः क्षीरधारावल? रिपुविजययशोभिः श्वेत एवासिदण्डः। किमुत कयलितैस्तैः कजलैमालयीनां परिणतमहिमाऽसौ नीलिमानं विति ? ॥२८॥ यद् दोर्मन्डलाडलीकृतधनुर्दण्डेन सिद्धाधिन ! क्रीतं वैरिकुलात् त्वया किल दलत्कुन्दावदावं यशः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy