________________
सिद्धहेमचन्द्रशब्दानुशासनप्रशस्तिः । १७१ श्रीदुर्लभेशयुमणेः पादास्तुष्टुविरे न कै । लुलद्भिर्मेदिनीपालैर्वा लिखिल्यैरिवाग्रतः ॥११॥ प्रतापतपनः कोऽपि मौलराजेनवोऽऽभवत् । रिपुत्रीमुखपद्मानां न सेहे. यः किल श्रियम् ॥ १२ ॥ कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् ।। अङ्गेषु विलसन् भूमेर्भाऽभृद् भीमपार्थिवः ॥१३॥ श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् । अहो ! चित्रमवर्धन्त ललाटे जलबिन्दुवः ॥ १४ ॥ कर्ण च सिन्धुराजं च निर्जित्य युधि दुर्जयम् । . श्रीभीमेनाधुना चक्रे महाभारतमन्यथा ॥ १५ ॥ दुर्योधनोर्वीपतिजैत्रबाहु-गृहीतचेदीशकरोऽवतीर्णः। .. अनुग्रहीतुं पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव ।। १६ ॥ अगणितपञ्चपुत्रलः पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १७ ॥ अकृत्वासननिर्बन्धमभित्त्वा पावनी -गतिम् । .. सिद्धराजः परपुरप्रवेशवशितां ययौः -- ॥१८॥ मात्रयाऽप्यधिक किचिन्न सहन्ते जिमीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकथाः ... ॥१९॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे ! मा मंसत क्षत्रियाः !। आरूढप्रबलप्रतापदहनः संप्राप्तधारश्चिरात्
.. पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमेधिष्यते ॥२०॥ श्रीविक्रमदित्यनरेश्वरस्य विया न किश्चित् प्रकृतं नरेन्द्र ! । यशस्यहार्षीः प्रथमं समन्तात् क्षणादभाजीरथ राजधानीम् ॥२१॥
मृदित्वा दोःकडूं समरभुवि वैरिथितिभुजा . . . भुजादण्डे दधुः कति न नवखण्डां वसुमतीम् ।