SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ परिशिष्टेषु । प्रान्त्वा श्रीणि जगन्ति खेदविवशं तद् मालवीनां व्यघा दापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥ २९ ॥ द्विषत्पुरक्षोदविनोदहेतो-भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर ! परं न यत्काममपाकरोति ॥ ३० ॥ ऊवं स्वर्गनिकेतनादपि तले पातालमूलादपि त्वत्कीर्तिभ्रमति क्षितीश्वरमणे ! पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्वापलै स्ते वाचंयमकृतयोपि मुनयो मौनव्रतं त्याजिताः ॥३१॥ आसीद् विशां पतिरसुद्रचतुम्समुद्र मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्घरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावंतसः ॥ ३२॥ वस्यान्वये समजनि प्रबलप्रतापतिग्मयुतिः क्षितिपतिजयसिंहदेवः येन स्ववंशसवितर्यपरं सुधांशी श्रीसिद्धराज इति नाम निजं व्यलेखि ॥३३॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाश्चीम् । विधाचतुष्टयविनीतमतिर्जिताऽऽत्मा . काष्ठामबाप पुरुषार्थचतुष्टये यः ॥३४॥ तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकर्थितेन । अभ्यर्थितो निरवमं विधिवद् व्यधन शादानुशासनमिदं मुनिहेमचन्द्रः
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy