________________
स्वोपज्ञवृचिसहितम्
[ ८४७ ] -मपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भृतेपि भवन्ति । अह पेच्छइ रहु-तणओ ॥ अथ प्रेक्षां चक्रे इत्यर्थः || आभासह रयणीअरे । आबभाषे रजनीच. रानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस aण्ठो । शृणोत्येष वण्ठ इत्यर्थः ॥ ४४७ ॥
शेषं संस्कृतवत्सिद्धम् | ८ | ४ | ४४८ |
शेषं यदत्र प्राकृतादिभासामु अष्टमे नोक्तं तत्सप्ताध्यायी निबद्ध संस्कृतव देव सिद्धम् ॥
- द्विय-सूर - निवारणाय छत्तं अहो इव वहन्ती । जयह संसेसा वराह- सास दूरुक्खुया पुहवी ||
..
अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः । उक्तमपि कचित्संस्कृतवदेव भवति । यथा प्राकृते उरसशब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भक्तस्तथा कचिदुरसीत्यपि भवति । एवं सिरे । सिरम्मि । सिरसि ॥ सरे । सरम्मि । सरसि । सिद्धग्रहणं मङ्गलार्थम् । ततो द्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ ४४८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधान
स्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ ॥ अष्टमोऽध्यायः ॥