________________
[८४६] प्राकृतव्याकरणम्
. लिङ्गमतन्त्रम् । ८ । ४ । ४४५।
अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । गयकुम्भई दारन्तु ।। अत्र पुंलिङ्गस्य नपुंसकत्वम् । ..
अम्मा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ।
जो एहा गिरि गिलण-मणु सो किं घणहे धणाइ।। अत्र अन्भा इति नपुंसकस्य पुंस्त्वम् ॥
पाइ विलग्गी अन्त्रडी सिरु ल्हसिंङ खन्धस्सु।
तो वि कटारइ हत्थडउ बलि किजउं कन्तस्सु॥ अत्र अन्त्रडी इति नपुंसकस्य स्त्रीत्वम् ॥
सिरि चडिआ खन्ति फलई पुणु डालई मोडन्ति ।
तोवि महद्दम सउणाहं अवराहिउ न करन्ति ॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ॥ ४४५ ।।
शौरसेनीवत् । ८ । ४ । ४४६ । अपभ्रंशे प्रायः शौरसेनीवत कार्य भवति ॥ सीसि सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किदु रदिए विहिदु खणु मुण्डमालिए जं पणएण तं नमहु कुसुम-दामकोदण्डु कामहो ॥ ४४६ ॥ .
व्यत्ययश्च । ८।४ । ४४७ । प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति ॥ यथा मागध्यां " तिष्ठश्चिष्ठ" (८-४-२९८ ) इत्युक्तं तथा प्रा. कृतपैशाचीशौरसेनीष्वपि भवति । चिष्ठदि ॥ अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंशभालके कुम्भ-शहश्र-वशाहे शंचिदे इत्यायन्य दपि द्रष्टव्यम् ॥ न केवलं भाषालक्षणानां त्याचादेशाना