________________
[८४८] प्राकृतव्याकरणम्
समाप्ताचेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रका. शिका नामेति ॥
आसीद्विशां पतिरमुद्रचतुःसमुद्र- मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः। श्रीमूलराज इति दुर्धरवैरिकुम्भि - .... कण्ठीरवः शुचिचुलुक्यकुलावतंसः॥१॥ तस्यान्वये समजनि प्रबलप्रताप. तिग्मातिः क्षितिपतिर्जयसिंहदेवः ।। येन स्ववंशसवितर्यपरं सुधांशी __ श्रीसिद्धराज इति नाम निजं व्यलेखि ॥२॥ सम्यग् निषेव्य चतुरश्चतुरोप्युपायान्
जित्वोपभुज्य च भुवं चतुरब्धिकाचीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्ठामवाप पुरुषार्थचतुष्टये यः ॥३॥ तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवव्यधत्त. शब्दानुशासनमिदं मुनिहेमचन्द्रः॥ ४ ॥ ग्रंथानं २१८५ श्लोकाः॥
श्रीः ।। शुभं भवतु॥ ॥ इति संपूर्ण प्राकृतव्याकरणम् ॥
- -