________________
JI
स्वोपज्ञवृत्तिसहितम् [८४३] अतोतुलः । ८ । ४ । ४३५। अपभ्रंशे इदंकिंयत्तदेतद्भयः परस्य अतोः प्रत्ययस्य उत्तुल इत्यादेशो भवति ॥ एत्तुलो। केत्तुलो। जेत्तुलो। तेत्तुलो । एत्तुलो ॥ ४३५ ॥
त्रस्य उत्तहे। ८ । ४ । ४३६ । अपभशे सर्वादेः सप्तम्यन्तात्परस्य प्रत्ययस्य डेतहे इत्यादेशो भवति ॥ एत्तहे तेत्तहे वारि घरि लच्छि निसण्ठुल धाइ । पिअ-पन्भट्ट व गोरडी निच्चल कहिं वि न ठाइ ॥४३६।।
त्व-तलोः प्पणः । ८।४। ४३७ । अपभ्रंशे त्वतलोः प्रत्यययोः पण इत्यादेशो भवति॥ वहुप्पणु परिपाविअइ ॥ प्रायोऽधिकारात् । वहत्तमहो तणेण ॥ ४३७॥ तव्यस्य इएव्वउं एठवडे एवा । ८ । ४ । ४३८ ।
अपभ्रंशे तव्यप्रत्ययस्य इएव्वउं एव्वउं एवा इत्येते प्रय आदेशा भवन्ति ॥ एउ गृहेप्पिणु धुं मई जइ प्रिउ उब्वारिजइ । महु करिएव्वउं किं पि णवि मरिएव्वउं पर देजइ ॥ देसुच्चाडणु सिहि-कढणु घण-कट्टणु जं लोइ । मंजिट्ठए अइरत्तिए सव्वु सहेव्य होइ॥ .. सोएवा पर वारिआ पुष्फबईहिं समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ॥ ४३८ ॥
क्व इ-इउ-इवि-अवयः । ८ । ४ । ४३९ ।
अपभ्रंशे क्त्वाप्रत्ययस्य इ इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ॥इ। .. ........