SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ [८४२] प्राकृतव्याकरणम् अत्रामि "स्यादौ दीर्घ--हस्वौ” (८-४-३३० ) इति दीर्घः ॥ एवं बाहुषलुल्लडउ । अत्र त्रयाणां योगः ॥४३०॥ स्त्रियां तदन्ताडीः । ८ । ४ । ४३१ । अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्यः यान्तेभ्यो डी प्रत्ययो भवति ॥ पहिआ दिट्ठी गोरडी दिही मग्गु निअन्त । अंसूसासेहिं कञ्चुआ तितुव्वाण करन्त ॥ एक कुडल्ली पञ्चहि रुद्धी ॥ ४३१ ॥ आन्तान्ताड्डाः । ८ । ४ । ४३२ । अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । डयपवादः ॥ पिउ आइंउ सुअ वत्तडी झुणि कन्नडइ पइट्ठ । तहो विरहहो नासन्तअहो धूलडिआ वि न विट्ठ ॥४३२॥ अस्येदे । ८ । ४ । ४३३ । __ अपभ्रंशे स्त्रियां वर्तमानस्य नानो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआ वि न दिछ । लियामित्येव । झुणि कन्नडइ पइट्ट ।। ४३३ ॥ युष्मदादेरीयस्य डारः । ८ । ४ । ४३४ । __ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ॥ संदेसें काई तुहारेण जं सङ्गहो न मिलिजइ। सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिज्जइ ॥ विक्खि अम्हारा कन्तु । बहिणि महारा कन्तु ॥४३४॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy