________________
स्वोपज्ञवृत्तिसहितम् १८१९] यत्तदः स्यमोंर्छ । ८ । ४ । ३६०। अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशो वा भवतः ।। प्रगणि चिट्ठदि नाहु | त्रं रणि करदि न भ्रन्त्रि ।। पक्षे । तं बोल्लिअइ जु निव्वहइ ।। ३६० ।।
इदम इमुः क्लीबे | ८ | ४ | ३६१ ।
अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयो इमु इत्यादेशो भवति ॥ इमु कुलु तुह तणउं । इमु कुलु देवखु ॥ ३६१ ॥ एतदः स्त्री-पुं-क्लीबे एह एहो एहु ।८।४।३६२।
अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ।। एह कुमारी एहो नरु एहु मणोरह-ठाणु । एहउं वढ चिन्तन्ताहं पच्छइ होइ विहाणु ॥ ३६२ ॥
एइजेस-शसोः । ८ । ४ । ३६३ । अपभ्रंशे एतदो जसु-शसोः परयोः एइ इत्यादेशो भवति ॥ एइ ति घोडा एह थलि । एइ पेच्छ ॥ ३६३ ।।
__ अदस ओइ । ८ । ४ । ३६४ । अपभ्रंशे अदसः स्थाने जसु-शसोः परयोः ओइ इत्यादेशो भवति ॥ जइ पुच्छह घर वड्डाई तो वड्डा घर ओइ। विहलिअ-जण अब्भुद्धरणु कन्तु कुडीरइ जोइ ॥ . अमूनि वर्तन्ते पृच्छ वा ॥ ३६४ ।।