________________
॥ वाचकेभ्यो न: निवेदनम् ।। )
प्रस्तुते ग्रन्थरत्ने चिरकालादप्रकाश्यमितानि पञ्चस्तोत्राणि प्रकाशितानि । पञ्चान्यति स्तोत्राणि वैदुषीसुरलतावेष्टितविद्यावृक्षरन्यान्यैः सूरिशार्दूलैराविर्भूतानि, रसिकपद-शब्दोपमाऽनुप्रासादलङ्कारललितानि, भिन्न-भिन्न छन्दसाऽवबद्धानि, परमतविदलनैकदक्षताऽऽपन्नयुक्तियुक्तानि, ऐतिहासिक्या च पार्श्वभूम्या समलङकृतानि विराजन्तेतराम्।
(१) प्रथमं तावद् 'वर्धमानद्वात्रिंशिका'ऽभिधानं स्तोत्रम् । विक्रमादित्यचूमितचरणैः कविकुलाऽग्रपुरुषै-भगवद्भिः श्रीमद्भिः सिद्धसेनदिवाकराचार्यवरैर्गुम्फितमिदं काव्यं जैनदर्शनसंमतस्य लोकोत्तरदेवतत्त्वस्य सर्वेषामुपरित्वं हृदयङ्गमया छटया सह महाकाव्यमिव मुक्तकण्ठै-ययति, राग-द्वेषप्रमुखदोषमालाग्रसितानां लौकिकदेवानां श्रध्येयतामा-मूलमेव निर्दलयति भगवते च वीतरागाय परां प्रीतिमुत्पादयति।
स्याद्वादमतमुदितहृदयैः प्रत्येकैः कण्ठस्थीकर्तव्यमदःकाव्यं परमात्मनः समक्षं स्तुतिरूपेणाऽपि गीयते । गायनेनाऽनेन भक्तहदि तात्त्विक-प्रमोदस्य महासमुद्रः कल्लोलयतीति बाढं श्रद्दधे । एतदुपरि पूर्वाचार्यप्रवरैः श्रीमदुदयसागरसूरिशेखरै-गंभीरार्था तत्त्वावगमशालिनी चाऽवचूरिः प्रणीता। तथा च केनचिद् विदुषा काव्यस्याऽस्य सटीकोऽनुवादोऽपि विहितः। उभयोरप्येतयोरत्र सकाव्यं प्रणयनं हृदं रञ्जयति।
(२) द्वितीयं तावद् ‘वर्धमान जिनस्तोत्रं' दीपिकावृत्तिपरिवृतम्। जगद्गुरुपदमावहद्भिः श्रीमद्भिःहीरविजयसूरीश्वरैरुद्भूतमेतत्काव्यं जगद्गुरुणामसाधारणं मतिसाम्राज्यमपि निर्देशयति, त्रिभुवनपतेवर्धमानप्रभोरनन्याऽतिशयसाम्राज्यस्य निर्देशनसाकम् । जगद्गुरूणां पुण्यसाम्राज्येन वयं नितरां संस्तुताः किन्त्वनेन काव्येन तेषां तातपादानां विद्यासाम्राज्यस्याऽपि परिचयो लभते । अतिशयमधुराऽसौ रचना