________________
प्रसादगुणयुता, आस्वादपूर्णा, पाण्डित्यमंडिता, विद्वज्जनभोग्याचाऽनेकाऽलङ्कारप्रकरभूता । न विस्मर्तव्यमेत्तस्य पठनम् ।
अस्योपरि साऽनुवादा वृत्तिः काव्यकलाकुशलेन मुनिना सुशीलविजयमहाराजेन निर्मिता । सुशीलोऽसावपि निर्माणप्रयत्नः । अत एव साऽप्यस्मिन् ग्रन्थसम्मीलिता ।
(३) तृतीयं तावत् स्तुतियमलम् । जैनसंघेष्वतिप्रसिद्धिमिते ज्ञानपञ्चमी मौनैकादशीस्तुती प्रायो ऽनेकेषां क्रियारसिकानां कण्ठस्थे वर्तेते । तयोरुपरि विकसत्प्रज्ञैः पूज्यमुनिराज श्रीकुन्दकुन्दविजयमहाराजैरनुवादपुरस्सरा वृत्तिरभिहिता । गणनापात्र एतस्य पुण्यपुंसः प्रयत्नः 1 साऽप्यत्राऽस्माभिः परिवेषिता ।
(४) तुरीयं तावदनुभूतसिद्धसारस्वतस्तोत्रम् । इतिहासपुरुषैराचार्यकटकाऽग्रगामिभिः श्रीमद्भिर्बप्पभट्टि
सूरिभिर्यत्स्तवस्यप्रणयनप्रारम्भक्रियायामेव भगवती शारदा विना निमन्त्रणं स्वयमाहूतां, तादृशं प्रभाभारभूरि स्तोत्रमेतदधिकारिणाऽभ्यासभक्तेन नित्यमध्ययनीयम् ।
स्तोत्रेऽस्मिन् परमविदुषा पूज्यपादमुनिना धुरन्धर विजयेन 'शिशुहिता'ऽभिधा व्याख्या विनिर्मिता । सुसुन्दराऽसौ व्याख्या । भव्यमत्र कवेर्विचारसौन्दर्यं भाषाऽनुभवश्च ।
(५) पञ्चमं तावत् स्तोत्रं पूज्यपादसूरिसम्राभिर्जिनप्रभाऽभिधपूर्वाचार्यैः प्रणीत-मात्मनिन्दाकुलकं मन्निर्मितानुवादमपि सम्मीलितम् । कुलकमेतत् संवेगातुराणां सुविहितयतीनां धोरव्यथां व्यनक्ति । वाचनमपि तस्य वाचकहृदयं व्यथयति ।
•
एतादृशः स्फूर्तियुतो ग्रन्थराजो - बहुलश्रुतैर्मुनिधर्मतिलकविजयवरैस्संपादितः । ग्रन्थेऽस्मिन् सञ्चितानि प्रत्येकानि स्तोत्राणि स्फुरितमतिनाऽवश्यमध्येतव्यानि, निदिध्यासपर्यन्तमनुशीलनीयानीति वाचकेभ्यो नः निवेदनम् ।
- हितवर्धनविजयोमुनिः
चैत्रशुक्ला प्रतिपदा - २०६० सूर्यपुरी (सुरत)