________________
जन्माभिषेक: प्राज्यश्चासौ जन्माभिषेक: प्राज्यजन्माभिषेक: पञ्चरूपत्रिदशपतिना कृतः प्राज्यजन्माभिषेको यस्य सः पञ्चरूपत्रिदश, पतिकृतप्राज्यजन्माभिषेकः, अभिषेककृते परमदयालुं श्रीमद्भगवन्तं मेरुगिरि नयता सौधर्मेन्द्रेण एकेन शरीरेण प्रभुमस्तकोपरि छत्रं धत्तं शरीरद्वयेन प्रभोर्द्धयोः पार्श्वयोः चामरे वीजिते, एकेन शरीरेण पुरतः वजं समुच्छालितं एकेन श्रीतीर्थेश: गृहीतः एवं वैक्रियवर्गणानिर्मितेन मूलरुपादपररुपाणां पञ्चकेन श्रीनेमितीर्थकरस्य महाजन्माभिषेक: कृतः । चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदा पञ्चवक्त्रोपमान: - पञ्च तत्सङ्ख्या -परिमितानि च तानि अक्षाणि इन्द्रियाणि, _ 'हृषीकमक्षं करणं स्रोत:- खं विषयीन्द्रियम्' इति(अभि० चिन्ता० श्लो॰ १३८३) ... पञ्चाक्षाणि चञ्चन्ति चपलानि च तानि पञ्चाक्षाणि
चञ्चत्पञ्चाक्षाणि, मत्ता: मदं प्राप्ता द्विरदा: द्वौ रदौ दन्तौ येषां ते द्विरदा: गजा: मत्तद्विरदा: चञ्चत्पञ्चाक्षाणि एव मत्तद्विरदा: चञ्चत्पञ्चाक्षमत्तद्विरदा: तेषां यो मद: गर्वः तस्य भिदायां भेदने पञ्च तत्सङ्ख्याकानि वक्त्राणि मुखानि
७१ पञ्चमी स्तुति